Answer:
महाकविः कालिदासः
महाकविः कालिदासः मम प्रियः कविः अस्ति। कविकुलशिरोमणिः महाकविः कालिदासः संस्कृतभाषायाः श्रेष्ठतमः कविः अस्ति। सः नाटककारः महाकाव्यप्रणेता गीतिकाव्यकर्ता (खण्डकाव्यकर्ता) च आसीत्। तस्य प्रमुखाः ग्रन्थाः सन्ति । यथा(अ) त्रीणिनाटकानि- मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम् च। (ब) महाकाव्यद्वयम्- रघुवंशम् कुमारसम्भवं च । (स) गीतिकाव्यद्वयम्- मेघदूतम् ऋतुसंहारम् च । कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति । कालिदासस्य प्रकृतिचित्रणं अतीव रम्यम् अस्ति । चरित्रचित्रणे कालिदासः अतीव पटुः अस्ति। कालिदासः महाराजविक्रमादित्यस्य सभाकविः आसीत् । अनुमीयते यत्तस्य जन्मभूमिः उज्जयिनी आसीत्। मेघदूते उज्जयिन्याः भव्यं वर्णनं विद्यतेः कालिदासस्य कृतिषु कृत्रिमतायाः अभावः अस्ति। कालिदासस्य साहित्ये काव्यसौन्दर्यं रसनिरूपणं च सर्वत्र दृश्यते । तस्य सूक्तयः सुधासिक्ताः चेतोहराः सन्ति। कालिदासस्य उपमा प्रयोगः अपूर्वः अतः साधूच्यते- 'उपमा कालिदासस्य ।'