MP Board Notes
Home> Class-10> संस्कृत >Q 347

Que : 347. छात्रजीवनम्। (संस्कृतभाषायां निबन्धं लिखत)
Answer:

 छात्रजीवनम्

विद्यार्थिजीवनं साधनामयं जीवनम् । अध्ययनं परमं तपः उच्यते । छात्रजीवनमेव मानवजीवनस्य प्रभातवेला आधारशिला च वर्तते।

 समस्तजीवनस्य विकासस्य हासस्य वा कारणम् एतज्जीवनमेवास्ति। छात्रजीवने परिश्रमस्य महती आवश्यकता वर्तते ।

यः छात्रः आलस्यं त्यक्त्वा परिश्रमेण विद्याध्ययनं करोति स एव साफल्यं लभते। अतएव छात्रैः प्रातःकाले ब्रह्ममुहूर्ते एव उत्थातव्यम् ।

 कस्मैचित् कालाय भ्रमणमपि अनिवार्यम् । ततः प्रतिनिवृत्य स्नानसन्ध्योपासनादिकं विधाय अध्ययन कर्त्तव्यम् ।

तदनन्तर च लघुसात्विकं भोजनं दुग्धं च गृहीत्वा विद्यालयं गन्तव्यम् । तत्र गत्वा गुरून् नत्वा अध्ययनं कर्त्तव्यम्।

छात्रैः असत्यवादनं न कदापि कर्त्तव्यम्। छात्रजीवनं पूर्णतः अनुशासनबद्धं भवति। विद्यार्थिजीवने एव समस्तानां मानवोचितगुणानां विकासो भवति।

छात्र एव राष्ट्रस्यानुपमा निधिरस्ति। अतः छात्राणां शारीरिकं चारित्रिकं च विकासं अत्यन्तानिवार्यम् ।

विद्यार्थिजीवनमेव सम्पूर्णागामिजीवनस्य आधारशिला। अतः तेषां सम्यक रक्षणं, पोषणम् च कर्त्तव्यम्।



Clas-10 संस्कृत Notes -