MP Board Notes
Home> Class-10> संस्कृत >Q 346

Que : 346. संस्कृतभाषायाः महत्वम्। (संस्कृतभाषायां निबन्धं लिखत)
Answer: 

संस्कृतभाषायाः महत्त्वम् :

 संस्कृत-भाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे एव भारतीया: संस्कृतभाषया एवं व्यवहार कुरवन्ति स्म । कालान्तरे विविधा: प्रान्तीया: भाषा: प्रचलिता: अभवन्, किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्था: चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकताया: आधार: अस्ति। संस्कृतभाषायाः यत्स्वरूपम अद्य प्राप्यते, तदेव अद्यत: सहस्रवर्षपूर्वम् अपि आसंत् । संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिक अस्ति। अस्य व्याकरणं पूर्णतः तर्कसम्मतं सुनिश्चितं च अस्ति ।

आचार्य-दण्डिना सम्यगेवोक्तम्- "भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।"

अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति । संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति। राष्ट्रस्य ऐक्यं च साधयति। भारतीयगौरवस्य रक्षणाय एतस्या: प्रसार: सवैरेव कर्त्तव्य: । अतएव उच्चते- ' संस्कृति: संस्कृताश्रिता। '




Clas-10 संस्कृत Notes -